Sukta 10.97
ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । सनेयमश्वं गां वास आत्मानं तव पूरुष ॥
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥
oṣádhīr íti mātarás tád vo devī́r úpa bruve | sanéyam áśvaṁ gā́m vā́sa ātmā́naṁ táva pūruṣa ||
O Mothers, the healing powers, thus I speak to you, O goddesses, drawing near: may I win the steed and the ray-cow, and the robe of being—yes, the very self for you, O Purusha (the indwelling Person).
ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप॑ । ब्रु॒वे॒ । स॒नेय॑म् । अश्व॑म् । गाम् । वासः॑ । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥ओषधीः । इति । मातरः । तत् । वः । देवीः । उप । ब्रुवे । सनेयम् । अश्वम् । गाम् । वासः । आत्मानम् । तव । पुरुष ॥oṣadhīḥ | iti | mātaraḥ | tat | vaḥ | devīḥ | upa | bruve | saneyam | aśvam | gām | vāsaḥ | ātmānam | tava | puruṣa