Sukta 10.97
ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥
ओष॑धय॒: सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥
oṣádhayaḥ sáṃ vadante sómena sahá rājñā́ | yásmai kṛṇóti brā́hmaṇas táṃ rā́jan pārayāmasi ||
The healing powers speak together with Soma the King. For whom the knower of the Word fashions the working, that one, O King, we carry across—beyond the peril into wholeness.
ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ । यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥ओषधयः । सम् । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि ॥oṣadhayaḥ | sam | vadante | somena | saha | rājñā | yasmai | kṛṇoti | brāhmaṇaḥ | tam | rājan | pārayāmasi