Sukta 10.97
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
tvám uttamā́sy oṣadhe táva vṛkṣā́ úpastayaḥ | úpastir astu só 'smā́kaṃ yó asmā́n abhídāsati ||
You are the most excellent, O healing power; your trees are supports and coverings. Let that support be ours—against whoever assails and seeks to injure us.
त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः । उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥त्वम् । उत्तमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः । उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिदासति ॥tvam | ut-tamā | asi | oṣadhe | tava | vṛkṣāḥ | upastayaḥ | upastiḥ | astu | saḥ | asmākam | yaḥ | asmān | abhi-dāsati