Sukta 10.97
मा वो रिषत्खनिता यस्मै चाहं खनामि वः । द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥
मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥
mā́ vo riṣat khanitā́ yásmai cāháṃ khanā́mi vaḥ | dví-pac cátuḥ-pád asmā́kaṃ sárvam astv anāturám ||
May the digger not harm you—nor the one for whom I dig you up. Let all that is ours, the two-footed and the four-footed, be free from disorder and affliction.
मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । वः॒ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒स्माक॑म् । सर्व॑म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥मा । वः । रिषत् । खनिता । यस्मै । च । अहम् । खनामि । वः । द्विपत् । चतुःपत् । अस्माकम् । सर्वम् । अस्तु । अनातुरम् ॥mā | vaḥ | riṣat | khanitā | yasmai | ca | aham | khanāmi | vaḥ | dvi-pat | catuḥ-pat | asmākam | sarvam | astu | anāturam