Sukta 10.97
या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु । बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥
या ओष॑धी॒: सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥
yā́ oṣádhīḥ sóma-rājñīr ví-sthitāḥ pṛthivī́m ánu | bṛ́haspáti-prasūtā asyái sáṃ datta vī́ryam ||
You healing powers, queens under Soma, spread out across the Earth—impelled by Bṛhaspati—gathered together, give to this one your force of victory and effective energy.
याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ । बृ॒ह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥याः । ओषधीः । सोमराज्ञीः । विस्थिताः । पृथिवीम् । अनु । बृहस्पतिप्रसूताः । अस्यै । सम् । दत्त । वीर्यम् ॥yāḥ | oṣadhīḥ | soma-rājñīḥ | vi-sthitāḥ | pṛthivīm | anu | bṛhaspati-prasūtāḥ | asyai | sam | datta | vīryam