Sukta 10.97
शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥
śatáṁ vo amba dhā́māni sahásram utá vo rúhaḥ | ádhā śatakratvo yūyám imáṁ me agádaṁ kṛta ||
A hundred are your stations, O Mothers, and a thousand your growths. Then, O you of a hundred powers, make for me this remedy—let it become my means of wholeness.
श॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ । अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥शतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः । अध । शतक्रत्वः । यूयम् । इमम् । मे । अगदम् । कृत ॥śatam | vaḥ | amba | dhāmāni | sahasram | uta | vaḥ | ruhaḥ | adha | śata-kratvaḥ | yūyam | imam | me | agadam | kṛta