Sukta 10.97
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥
या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥
yā́ oṣádhīḥ pū́rvā jātā́ devébhyas triyugáṁ purā́ | manái nú babhrū́ṇām aháṁ śatáṁ dhā́māni saptá ca ||
O plants, born first, ancient before the gods through the triple age, I now call to mind your brown-hued powers: a hundred and seven are your stations—your settled forms of healing presence.
याः । ओष॑धीः । पूर्वा॑ । जा॒ता । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा । मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥याः । ओषधीः । पूर्वा । जाता । देवेभ्यः । त्रियुगम् । पुरा । मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च ॥yāḥ | oṣadhīḥ | pūrvā | jātā | devebhyaḥ | tri-yugam | purā | manai | nu | babhrūṇām | aham | śatam | dhāmāni | sapta | ca