Sukta 10.97
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । तासां त्वमस्युत्तमारं कामाय शं हृदे ॥
या ओष॑धी॒: सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥
yā́ oṣádhīḥ sóma-rājñīr bahvī́ḥ śatá-vicakṣaṇāḥ | tāsā́ṃ tvám asy uttamā́rám kā́māya śáṃ hṛdé ||
Among the many healing powers, queens under Soma, with a hundred modes of seeing, you are the most excellent—fully sufficient for the soul’s desire, a peace and gladness for the heart.
याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः । तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥याः । ओषधीः । सोमराज्ञीः । बह्वीः । शतविचक्षणाः । तासाम् । त्वम् । असि । उत्तमा । अरम् । कामाय । शम् । हृदे ॥yāḥ | oṣadhīḥ | soma-rājñīḥ | bahvīḥ | śata-vicakṣaṇāḥ | tāsām | tvam | asi | ut-tamā | aram | kāmāya | śam | hṛde