Sukta 10.97
अवपतन्तीरवदन्दिव ओषधयस्परि । यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥
अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥
avá-patantīr avadan divá oṣádhayaḥ pári | yáṃ jīváṃ aśnávāmahai ná sá riṣyāti pū́ruṣaḥ ||
Falling down from heaven, the healing powers spread all around. Whom we reach and take into the living current, that person is not harmed—he does not fall into injury.
अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥अवपतन्तीः । अवदन् । दिवः । ओषधयः । परि । यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः ॥ava-patantīḥ | avadan | divaḥ | oṣadhayaḥ | pari | yam | jīvam | aśnavāmahai | na | saḥ | riṣyāti | puruṣaḥ