Sukta 10.97
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑: । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥
yā́ḥ phalínīr yā́ aphalā́ apuṣpā́ yā́ś ca puṣpíṇīḥ | bṛ́haspáti-prasūtā́s tā́ no muñcántv áṃhasaḥ ||
Whether bearing fruit, or fruitless, whether without flower or rich with blossom—whatever the healing powers are, born from the impulsion of Bṛhaspati, let them release us from the constriction of wrong and suffering.
याः । फ॒लिनीः॑ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः॑ । बृह॒स्पति॑ऽप्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥याः । फलिनीः । याः । अफलाः । अपुष्पाः । याः । च । पुष्पिणीः । बृहस्पतिप्रसूताः । ताः । नः । मुञ्चन्तु । अंहसः ॥yāḥ | phalinīḥ | yāḥ | aphalāḥ | apuṣpāḥ | yāḥ | ca | puṣpiṇīḥ | bṛhaspati-prasūtāḥ | tāḥ | naḥ | muñcantu | aṃhasaḥ