Sukta 10.97
अन्या वो अन्यामवत्वन्यान्यस्या उपावत । ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॑: संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑: ॥
anyā vo anyām avatv anyā anyasyā́ upā́vat | tā́ḥ sárvāḥ saṃvidānā́ idaṃ me prá̄vatā́ vácaḥ ||
May each healing power support the other; may one aid the other in mutual approach. Let all of them, united in one understanding, forward and fulfil this word of mine—this will of prayer.
अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः॑ । उप॑ । अ॒व॒त॒ । ताः । सर्वाः॑ । स॒म्ऽवि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः॑ ॥अन्या । वः । अन्याम् । अवतु । अन्या । अन्यस्याः । उप । अवत । ताः । सर्वाः । सम्विदानाः । इदम् । मे । प्र । अवत । वचः ॥anyā | vaḥ | anyām | avatu | anyā | anyasyāḥ | upa | avata | tāḥ | sarvāḥ | sam-vidānāḥ | idam | me | pra | avata | vacaḥ