Sukta 10.97
यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः । ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
yásyā́uṣadhīḥ prasárpathā́ṅgam aṅgáṁ páruṣ-paruḥ | táto yákṣmaṁ ví bādhadhva ugró madhyam-aśī́r iva ||
For whom the healing powers creep and spread through limb by limb, joint by joint—then drive away the yakṣma, violently, like a fierce wedge splitting the middle.
यस्य॑ । ओ॒ष॒धीः॒ । प्र॒ऽसर्प॑थ । अङ्ग॑म्ऽअङ्गम् । परुः॑ऽपरुः । ततः॑ । यक्ष्म॑म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीःऽइ॑व ॥यस्य । ओषधीः । प्रसर्पथ । अङ्गम्अङ्गम् । परुःपरुः । ततः । यक्ष्मम् । वि । बाधध्वे । उग्रः । मध्यमशीःइव ॥yasya | oṣadhīḥ | pra-sarpatha | aṅgam-aṅgam | paruḥ-paruḥ | tataḥ | yakṣmam | vi | bādhadhve | ugraḥ | madhyamaśīḥ-iva