Sukta 10.97
यदिमा वाजयन्नहमोषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥
yád imā́ vā́jayan ahám oṣádhīr hásta ādadhé | ātmā́ yákṣmasya naśyati purā́ jīvá-gṛ́bho yáthā ||
When, seeking plenitude of force, I take these healing powers into my hand, the very self of wasting sickness perishes—like a living thing seized and held fast.
यत् । इ॒माः । वा॒जय॑न् । अ॒हम् । ओष॑धीः । हस्ते॑ । आ॒ऽद॒धे । आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभः॑ । य॒था॒ ॥यत् । इमाः । वाजयन् । अहम् । ओषधीः । हस्ते । आदधे । आत्मा । यक्ष्मस्य । नश्यति । पुरा । जीवगृभः । यथा ॥yat | imāḥ | vājayan | aham | oṣadhīḥ | haste | ādadhe | ātmā | yakṣmasya | naśyati | purā | jīva-gṛbhaḥ | yathā