Sukta 10.96
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः । प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒: शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः । प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
sruvéva yásya hárīṇī vipetátuḥ śipré vājā́ya hárīṇī dávīdhvataḥ | prá yát kṛté camáse marmṛ́jad dhárī pītvā́ mádasya haryatásyā́ndhasaḥ ||
Like two ladles, his two tawny ones move apart; at the cheeks (the yoking-points), the two tawny powers quiver for the plenitude of force. When, in the prepared cup, the two Haris wipe it clean—then, having drunk the rapture of the delightful Soma-essence, they press forward in the intoxication of power.
स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः । प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य । अन्ध॑सः ॥स्रुवाइव । यस्य । हरिणी इति । विपेततुः । शिप्रे इति । वाजाय । हरिणी इति । दविध्वतः । प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः ॥sruvāiva | yasya | hariṇī iti | vi-petatuḥ | śipreiti | vājāya | hariṇī iti | davidhvataḥ | pra | yat | kṛte | camase | marmṛjat | harī iti | pītvā | madasya | haryatasya | andhasaḥ