Sukta 10.96
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत । अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत । अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥
háriśmaśārur hárikeśa āyásas túraspeye yó haripā́ ávardhata | árvadbhi r yó háribhir vājínīvasur áti víśvā duritā́ pā́riṣad hárī ||
He of tawny beard, tawny hair, firm as metal, a swift drinker—he who, the Haripā, has grown in might. He who, with steeds and with the tawny powers, rich in plenitudes of force, carries us beyond all distresses—may the two Haris bear us safely across.
हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥हरिश्मशारुः । हरिकेशः । आयसः । तुरःपेये । यः । हरिपाः । अवर्धत । अर्वत्भिः । यः । हरिभिः । वाजिनीवसुः । अति । विश्वा । दुःइता । पारिषत् । हरी इति ॥hari-śmaśāruḥ | hari-keśaḥ | āyasaḥ | turaḥ-peye | yaḥ | hari-pāḥ | avadharta | arvat-bhiḥ | yaḥ | hari-bhiḥ | vājinī-vasuḥ | ati | viśvā | duḥ-itā | pāriṣat | harī iti