Sukta 10.96
उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत् । मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् । म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥
utá smá sádma haryatásya pastyóḥ átyo ná vājáṁ hárivā̃ acikradat | mahī́ cíd dhí dhiṣáṇā́ haryád ojasā́ bṛhád váyo dadhīṣe haryatáś cidā́ ||
And indeed, in the home and dwelling of the Delightful One, the Harivat (Indra) cries out for the plenitude like a charger for the prize. For even the vast Intelligence is stirred by his desirable force; a wide and lofty vitality you establish—yes, even in the delightful being.
उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः॑ । अत्यः॑ । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् । म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥उत । स्म । सद्म । हर्यतस्य । पस्त्योः । अत्यः । न । वाजम् । हरिवान् । अचिक्रदत् । मही । चित् । हि । धिषणा । अहर्यत् । ओजसा । बृहत् । वयः । दधिषे । हर्यतः । चित् । आ ॥uta | sma | sadma | haryatasya | pastyoḥ | atyaḥ | na | vājam | hari-vān | ac ikradat | mahī | cit | hi | dhiṣaṇā | aharyat | ojasā | bṛhat | vayaḥ | dadhiṣe | hayartaḥ | cit | ā