Sukta 10.96
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा । अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा । अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥
araṁ kā́māya hárayo dadhanvire sthirā́ya hinván hárayo hárī turā́ | árvadbhi r yó háribhir jóṣam ī́yate só asya kā́maṁ hárivantam ānaśe ||
The tawny powers (Indra’s steeds of luminous energy) harness themselves to fulfil the soul’s aspiration; urged toward a stable foundation, the two swift tawny ones surge forward. Whoever comes into the glad consenting companionship with these tawny forces—he wins for himself the desired delight, rich with the energies of the Hari.
अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा । अर्वत्भिः । यः । हरिभिः । जोषम् । ईयते । सः । अस्य । कामम् । हरिवन्तम् । आनशे ॥aram | kāmāya | harayaḥ | dadhanvire | sthirāya | hinvan | harayaḥ | harī iti | turā | arvat-bhiḥ | yaḥ | hari-bhiḥ | joṣam | īyate | saḥ | asya | kāmam | har i-vantam | ānaśe