Sukta 10.96
ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी । पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥
ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ । पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥
tā́ vajríṇaṁ mandínaṁ stómyam máde índraṁ ráthe vahato haryatā́ hárī | purū́ṇy asmai sávanāni haryate índrāya sómā hárayo dadhanvire ||
Those two desirable tawny powers bear on the chariot Indra, wielder of the thunderbolt, the gladdener, worthy of the hymn in ecstasy. Many are the pressings prepared for him; for Indra the Soma-draughts, golden with light, are set in motion.
ता । व॒ज्रिण॑म् । म॒न्दिनम् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ । पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥ता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहतः । हर्यता । हरी इति । पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमाः । हरयः । दधन्विरे ॥tā | vajriṇam | mandinam | stomyam | made | indram | rathe | vahataḥ | haryatā | harī iti | purūṇi | asmai | savanāni | haryate | indrāya | somāḥ | harayaḥ | dadhanvire