Sukta 10.96
त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः । त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥
त्वंत्व॑महर्यथा॒ उप॑स्तुत॒: पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः । त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
tváṁ-tvam aharyathā́ úpa-stutaḥ pū́rvebhir indra haríkeśa yájvabhiḥ | tváṁ haryasi táva víśvam ukthyàm asā́mi rā́dho hari-jāta haryatám ||
You, you are ever to be desired when praised by the ancient sacrificers, O Indra of tawny mane. You delight; all that is worthy of hymn is yours—an unexhausted plenitude, O golden-born, desirable in your power.
त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ । यज्व॑ऽभिः । त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥त्वम्त्वम् । अहर्यथाः । उपस्तुतः । पूर्वेभिः । इन्द्र । हरिकेश । यज्वभिः । त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरिजात । हर्यतम् ॥tvam-tvam | aharyathāḥ | upa-stutaḥ | pūrvebhiḥ | indra | hari-keśa | yajva-bhiḥ | tvam | haryasi | tava | viśvam | ukthyam | asāmi | rādhaḥ | hari-jāta | haryatam