Sukta 10.96
दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या । तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ । तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥
diví ná ketúr ádhi dhāyi haryató vivyácad vájro hárīto ná raṁhyā́ | túdad áhīṁ háriśipro yá ā́yasaḥ sahásraśokā abhavad dharim-bharáḥ ||
In heaven a banner of light is set—desirable; the tawny thunderbolt spreads wide, swift in its surge. The fair-lipped one strikes the serpent-obstruction with the iron force; a bearer of the golden power he becomes, with a thousand flames of luminous energy.
दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ । हरि॑तः । न । रंह्या॑ । तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः । स॒हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥दिवि । न । केतुः । अधि । धायि । हर्यतः । विव्यचत् । वज्रः । हरितः । न । रंह्या । तुदत् । अहिम् । हरिशिप्रः । यः । आयसः । सहस्रशोकाः । अभवत् । हरिम्भरः ॥divi | na | ketuḥ | adhi | dhāyi | haryataḥ | vivyacat | vajraḥ | haritaḥ | na | raṃhyā | tudat | ahim | hari-śipraḥ | yaḥ | āyasaḥ | sahasra-śokāḥ | abhavat | harim-bharaḥ