Sukta 10.96
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः । द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
só asya vájro hárīto yá ā́yaso hárir níkāmo hárir ā́ gábhastyoḥ | dyumnī́ suśípro hárimanyu-sāyaka índre ní rū́pā hárītā mimikṣire ||
His thunderbolt is golden-tawny, forged of iron; tawny in intent, tawny in the grasp of his hands. In the shining might, the fair-lipped one shoots the arrow of tawny ardor; in Indra the tawny forms are mingled and established.
सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः । द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निकामः । हरिः । आ । गभस्त्योः । द्युम्नी । सुशिप्रः । हरिमन्युसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥saḥ | asya | vajraḥ | haritaḥ | yaḥ | āyasaḥ | hariḥ | ni-kāmaḥ | hariḥ | ā | gabhastyoḥ | dyumnī | su-śipraḥ | harimanyu-sāyakaḥ | indre | ni | rūpā | har itā | mimikṣire