Sukta 10.96
हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः । आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सद॑: । आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
haríṁ hí yóniṁ abhí yé samásvaran hinvánto hárī divyáṁ yáthā sádaḥ | ā yáṁ pṛṇánti háribhir ná dhénava índrāya śū́ṣaṁ hári-vantam arcata ||
They sound together toward the tawny source, urging on the two Harī, as toward the divine seat. Him they fill with the tawny powers as cows fill with milk; sing to Indra, rich in shining force, the vehement energy that bears the golden might.
हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ । आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥हरिम् । हि । योनिम् । अभि । ये । सम्अस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा । सदः । आ । यम् । पृणन्ति । हरिभिः । न । धेनवः । इन्द्राय । शूषम् । हरिवन्तम् । अर्चत ॥harim | hi | yonim | abhi | ye | sam-asvaran | hinvantaḥ | harī iti | divyam | yathā | sadaḥ | ā | yam | pṛṇanti | hari-bhiḥ | na | dhenavaḥ | indrāya | śūṣam | hari-vantam | arcata