Sukta 10.96
प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् । घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिर॑: ॥
prá te mahé vidáthe śaṁsiṣaṁ hárī prá te vanve vánuṣo haryatáṁ mádam | ghṛtáṁ na yó háribhiś cā́ru sécatā́ tvā viśantu hári-varpasaṁ gíraḥ ||
For you, for the great one, in the assembly of knowledge, I set forth the praise; for you I win the rapture that is desirable to the striving soul. As one pours a lovely stream of clarified sweetness with the tawny powers, so may my words enter you—O you of golden-luminous form.
प्र । ते॒ । म॒हे । वि॒दथे॑ श॒म्सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः॑ । ह॒र्य॒तम् । मद॑म् । घृ॒तम् । न । यः । हरि॑ऽभिः । चारु॑ । सेच॑त । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥प्र । ते । महे । विदथे शम्सिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् । घृतम् । न । यः । हरिभिः । चारु । सेचत । आ । त्वा । विशन्तु । हरिवर्पसम् । गिरः ॥pra | te | mahe | vidatheśamsiṣam | harī iti | pra | te | vanve | vanuṣaḥ | haryatam | madam | ghṛtam | na | yaḥ | hari-bhi ḥ | cāru | secata | ā | tvā | viśantu | hari-varpasam | giraḥ