Sukta 10.96
आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र । पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥
आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र । पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥
ā́ tvā haryántaṁ prayújo jánānāṁ ráthe vahantu háriśipram indra | píbā yáthā pratíbhṛtasya mádhvo haryán yajñáṁ sadhamā́de dáśoṇim ||
Let the yoked energies of men bring you on the chariot, O Indra of tawny jaws, you who delight in the advance. Drink as one drinks the offered honeyed sweetness; rejoicing, take the sacrifice in the common ecstasy, the rite made full in its tenfold course.
आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ । पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽओणिम् ॥आ । त्वा । हर्यन्तम् । प्रयुजः । जनानाम् । रथे । वहन्तु । हरिशिप्रम् । इन्द्र । पिब । यथा । प्रतिभृतस्य । मध्वः । हर्यन् । यज्ञम् । सधमादे । दशओणिम् ॥ā | tvā | haryantam | pra-yujaḥ | janānām | rathe | vahantu | hari-śipram | indra | piba | yathā | prati-bhṛtasya | madhvaḥ | haryan | yajñam | sadha-māde | daśa-oṇim