Sukta 10.96
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥
अपा॒: पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते । म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥
apā́ḥ pū́rveṣāṁ harivaḥ sutā́nām átho idáṁ sávanam kévalaṁ te | mamaddhí sómaṁ mádhumantam indra satrā́ vṛṣan jaṭháre ā́ vṛṣasva ||
Let go the earlier pressings, O Harivaḥ; now this pressing is yours alone. Drink deep the honeyed Soma, O Indra; continuously, O Bull of power, pour it into your belly—fill yourself with the force of delight.
अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ । म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥अपाः । पूर्वेषाम् । हरिवः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते । ममद्धि । सोमम् । मधुमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥apāḥ | pūrveṣām | hari-vaḥ | sutānām | atho iti | idam | savanam | kevalam | te | mamaddhi | somam | madhu-mantam | indra | satrā | vṛṣan | jaṭhare | ā | vṛṣasva