Sukta 10.96
आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् । प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् । प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥
ā́ rodasī́ haryamāṇo mahitvā́ návyaṁ-návyaṁ haryasi mánma nú priyám | prá pastyám asura haryatáṁ gór āvíṣkṛdhi háraye sū́ryāya ||
To the two worlds you rise, rejoicing in your greatness; ever anew you kindle the beloved thought. O Asura (lord of force), bring forth the delightful home; reveal the Cow— the ray of knowledge— for the tawny power, for the Sun of truth.
आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ । नु । प्रि॒यम् । प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥आ । रोदसी इति । हर्यमाणः । महित्वा । नव्यम्नव्यम् । हर्यसि । मन्म । नु । प्रियम् । प्र । पस्त्यम् । असुर । हर्यतम् । गोः । आविः । कृधि । हरये । सूर्याय ॥ā | rodasī iti | haryamāṇaḥ | mahi-tvā | navyam-navyam | haryasi | manma | nu | priyam | pra | pastyam | asura | haryatam | goḥ | āviḥ | kṛdhi | haraye | sūryāya