Sukta 10.95
यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते । ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥
यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभि॒: क्रतु॑भि॒र्न पृ॒ङ्क्ते । ता आ॒तयो॒ न त॒न्व॑: शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ॥
yád āsu márto amṛ́tāsu ni-spṛ́k sám kṣoṇī́bhir kratúbhir ná pṛ́ṅkte | tā́ ātáyo ná tanvàḥ śúmbhata svā́ aśvā́so ná krīḷáyo dándaśānāḥ ||
When the mortal, untouched, does not blend with the immortals by the grounded powers and discerning wills, then those impulsions do not adorn his embodied being—like playful horses, biting and restless, they remain his own yet unharmonized.
यत् । आ॒सु॒ । मर्तः॑ । अ॒मृता॑सु । नि॒ऽस्पृक् । सम् । क्षो॒णीभिः । क्रतु॑ऽभिः । न । पृ॒ङ्क्ते । ताः । आ॒तयः॑ । न । त॒न्वः॑ । शु॒म्भ॒त॒ । स्वाः । अश्वा॑सः । न । क्री॒ळयः॑ । दन्द॑शानाः ॥यत् । आसु । मर्तः । अमृतासु । निस्पृक् । सम् । क्षोणीभिः । क्रतुभिः । न । पृङ्क्ते । ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः ॥yat | āsu | martaḥ | amṛtāsu | ni-spṛk | sam | kṣoṇībhiḥ | kratu-bhiḥ | na | pṛṅkte | tāḥ | ātayaḥ | na | tanvaḥ | śumbhata | svāḥ | aśvāsaḥ | na | krīḷayaḥ | dandaśānāḥ