Sukta 10.95
सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे । अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः ॥
सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ । अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वा॑: ॥
sacā́ yád āsu jáhatīṣv átkam amā́nuṣīṣu mā́nuṣo niṣévē | ápa sma mát tarásantī ná bhujyús tā́ atrasan ratha-spṛ́śo ná’śvā́ḥ ||
But when among those unhuman movements the human tries to dwell, as they abandon the mortal frame, they do not endure—fleeing from me in fear, like chariot-touching horses that shy away.
सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अत्क॑म् । अमा॑नुषीषु । मानु॑षः । नि॒ऽसेवे॑ । अप॑ । स्म॒ । मत् । त॒रस॑न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒ऽस्पृशः॑ । न । अश्वाः॑ ॥सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । निसेवे । अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन् । रथस्पृशः । न । अश्वाः ॥sacā | yat | āsu | jahatīṣu | atkam | amānuṣīṣu | mānuṣaḥ | ni-seve | apa | sma | mat | tarasantī | na | bhujyuḥ | tāḥ | atrasan | ratha-spṛśaḥ | na | aśvāḥ