Sukta 10.95
विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि । जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥
वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि । जनि॑ष्टो अ॒पो नर्य॒: सुजा॑त॒: प्रोर्वशी॑ तिरत दी॒र्घमायु॑: ॥
ví-dyut na yā́ pátantī davídyod bhárantī me apyā́ kā́myāni | jánīṣṭo apó naryàḥ su-jā́taḥ pró’rváśī tirata dī́rgham ā́yuḥ ||
Like a lightning-flash in flight she gleams, bringing to me the hidden desirable things. ‘He is born,’—the manly, well-born child of the Waters; may Urvāśī carry him forward across to a long life.
वि॒ऽद्युत् । न । या । पत॑न्ती । दवि॑द्योत् । भर॑न्ती । मे॒ । अप्या॑ । काम्या॑नि । जनि॑ष्टो॒ इति॑ । अ॒पः । नर्यः॑ । सुऽजा॑तः । प्र । उ॒र्वशी॑ । ति॒र॒त॒ । दी॒र्घम् । आयुः॑ ॥विद्युत् । न । या । पतन्ती । दविद्योत् । भरन्ती । मे । अप्या । काम्यानि । जनिष्टो इति । अपः । नर्यः । सुजातः । प्र । उर्वशी । तिरत । दीर्घम् । आयुः ॥vi-dyut | na | yā | patantī | davidyot | bharantī | me | apyā | kāmyāni | janiṣṭo iti | apaḥ | naryaḥ | su-jātaḥ | pra | urvaśī | tirata | dīrgham | āyuḥ