Sukta 10.95
समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः । महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥
सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॒॑: स्वगू॑र्ताः । म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ॥
sám asmín jā́yamāna āsata gnā́ utém avardhann adyàḥ sva-gū́rtāḥ | mahé yát tvā purūravo raṇā́yāvardhayan dasyu-hátyāya devā́ḥ ||
At your very birth the bright powers were present, and the rivers too increased you, rightly guided. For a great work, O Purūravas, the gods strengthened you for the battle—for the slaying of the dark disruptors.
सम् । अ॒स्मि॒न् । जाय॑माने । आ॒स॒त॒ । ग्नाः । उ॒त । ई॒म् । अ॒व॒र्ध॒न् । न॒द्यः॑ । स्वऽगू॑र्ताः । म॒हे । यत् । त्वा॒ । पु॒रू॒र॒वः॒ । रणा॑य । अव॑र्धयन् । द॒स्यु॒ऽहत्या॑य । दे॒वाः ॥सम् । अस्मिन् । जायमाने । आसत । ग्नाः । उत । ईम् । अवर्धन् । नद्यः । स्वगूर्ताः । महे । यत् । त्वा । पुरूरवः । रणाय । अवर्धयन् । दस्युहत्याय । देवाः ॥sam | asmin | jāyamāne | āsata | gnāḥ | uta | īm | avardhan | nadyaḥ | sva-gūrtāḥ | mahe | yat | tvā | purūravaḥ | raṇāya | avardhayan | dasyu-hatyāya | devāḥ