Sukta 10.95
या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः । ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त ॥
या सु॑जू॒र्णिः श्रेणि॑: सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः । ता अ॒ञ्जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवन्त ॥
yā su-jūrṇíḥ śréṇiḥ sumné’āpír hradé-cákṣur ná granthinī́ caraṇyúḥ | tā́ añjáyo’ruṇáyo ná sasruḥ śríye gā́vo ná dhenávo’navanta ||
Those swift-streaming ranks, rich in blessing, with vision in the heart, not knotted but freely moving—like ruddy ointments they flow; for the sake of beauty and increase they come on, like cows, like milch-kine that do not fail.
या । सु॒ऽजू॒र्णिः । श्रेणिः॑ । सु॒म्नेऽआ॑पिः । ह्र॒देऽच॑क्षुः । न । ग्र॒न्थिना॑ई । च॒र॒ण्युः । ताः । अ॒ञ्जयः॑ । अ॒रु॒णयः॑ । न । स॒स्रुः॒ । श्रि॒ये । गावः॑ । न । धे॒नवः॑ । अ॒न॒व॒न्त॒ ॥या । सुजूर्णिः । श्रेणिः । सुम्नेआपिः । ह्रदेचक्षुः । न । ग्रन्थिनाई । चरण्युः । ताः । अञ्जयः । अरुणयः । न । सस्रुः । श्रिये । गावः । न । धेनवः । अनवन्त ॥yā | su-jūrṇiḥ | śreṇiḥ | sumne--āpiḥ | hrade--cakṣuḥ | na | granthināī | caraṇyuḥ | tāḥ | añjayaḥ | aruṇayaḥ | na | sasruḥ | śriye | gāvaḥ | na | dhenavaḥ | anavanta