Sukta 10.95
त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि । पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥
त्रिः स्म॒ माह्न॑: श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि । पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥
tríḥ sma mā́hnaḥ śnathayo vaitasénot sma mé’vyatyā́i pṛṇāsi | purū́ravo ánu te kétam āyam rā́jā me vīra tanvàs tádā́sīḥ ||
Thrice in the day the Vaitasena breaks the knot; and you fill me for the unbroken continuance. O Purūravas, I have come following your light-sign; you were then my king, my hero, the strength of my embodied being.
त्रिः । स्म॒ । मा । अह्नः॑ । श्न॒थ॒यः॒ । वै॒त॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्यै । पृ॒णा॒सि॒ । पुरू॑रवः । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्वः॑ । तत् । आ॒सीः॒ ॥त्रिः । स्म । मा । अह्नः । श्नथयः । वैतसेन । उत । स्म । मे । अव्यत्यै । पृणासि । पुरूरवः । अनु । ते । केतम् । आयम् । राजा । मे । वीर । तन्वः । तत् । आसीः ॥triḥ | sma | māhnaḥ | śnathayaḥ | vaitasena | uta | sma | me | avyatyai pṛṇāsi | purūravaḥ | anu | te | ketam | āyam | rājā | me | vīra | tanvaḥ | tat | āsīḥ