Sukta 10.95
सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् । अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन ॥
सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् । अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥
sā vásu dádhatī śváśurāya váya uṣo yádi váṣṭy ánti-gṛhāt | ástaṃ nanakṣe yásmiṃ cākán divā náktaṃ śnathitā vaitaséna ||
She, bearing the inner wealth, seeks at dawn the vital increase for the elder power; then she returns homeward—toward that goal in which, day and night, the bonds are broken by Vaitasena.
सा । वसु॑ । दध॑ती । श्वशु॑राय । वयः॑ । उषः॑ । यदि॑ । वष्टि॑ । अन्ति॑ऽगृहात् । अस्त॑म् । न॒न॒क्षे॒ । यस्मि॑म् । चा॒कन् । दिवा॑ । नक्त॑म् । श्न॒थि॒ता । वै॒त॒सेन॑ ॥सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्तिगृहात् । अस्तम् । ननक्षे । यस्मिम् । चाकन् । दिवा । नक्तम् । श्नथिता । वैतसेन ॥sā | vasu | dadhatī | śvaśurāya | vayaḥ | uṣaḥ | yadi | vaṣṭi | anti-gṛhāt | astam | nanakṣe | yasmim | cākan | divā | naktam | śnathitā | vaitasena