Sukta 10.95
इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः । अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥
इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहि॑: । अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥
íṣur ná śríya iṣudhér asanā́ goṣā́ḥ śatasā́ ná raṃhíḥ | avī́re krátau ví davidyutat nórā ná māyúṃ citayanta dhúnayaḥ ||
Like an arrow for splendor, like a quiver’s store, like cattle-winnings, like the speed of hundreds—so flashed our purpose. Yet without the hero in the will, the shaking powers do not heed the cry, nor do they recognize the anguished striving.
इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ । अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥इषुः । न । श्रिये । इषुधेः । असना । गोसाः । शतसाः । न । रंहिः । अवीरे । क्रतौ । वि । दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥iṣuḥ | na | śṛiye | iṣu-dheḥ | asanā | go--sāḥ | śatasā | na | raṃhiḥ | avīre | kratau | vi | davidyutat | na | urā | na | māyum | citayanta | dhunayaḥ