Sukta 10.95
किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव । पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥
किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ । पुरू॑रव॒: पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥
kím etā́ vācā́ kṛṇavā távā́haṃ prā́kramiṣam uṣásām agriyéva | purū́ravaḥ púnar ástaṃ párehí durā́panā vā́ta ivā́ham asmi ||
What shall I do with this speech of yours? I have gone forth like the first of the Dawns. O Purūravas, go back again to your home; hard to be grasped am I, like the wind.
किम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव॑ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा॑म् । अ॒ग्रि॒याऽइ॑व । पुरू॑रवः । पुनः॑ । अस्त॑म् । परा॑ । इ॒हि॒ । दुः॒ऽआ॒प॒ना । वातः॑ऽइव । अ॒हम् । अ॒स्मि॒ ॥किम् । एता । वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाइव । पुरूरवः । पुनः । अस्तम् । परा । इहि । दुःआपना । वातःइव । अहम् । अस्मि ॥kim | etā | vācā | kṛṇava | tava | aham | pra | akramiṣam | uṣasām | agriyāiva | purūravaḥ | punaḥ | astam | parā | ihi | duḥ-āpanā | vātaḥ-iva | aham | asmi