Sukta 10.95
हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु । न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥
háye jā́ye mánasā́ tíṣṭha ghóre vá cāṃsi miśrā́ kṛṇavāvahai nú | ná nau mántrā ánuditāsa eté máyaskaran páratare canā́han ||
Come, O wife, stand in mind in this difficult hour; now let us make our words a mingled harmony. These our mantras are not unspoken or unfounded; they bring sweetness and they strike even farther days with their power.
ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घोरे॑ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु । न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु । न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । परतरे । चन । अहन् ॥haye | jāye | manasā | tiṣṭha | ghore | vacāṃsi | miśrā | kṛṇavāvahai | nu | na | nau | mantrāḥ | anuditāsaḥ | ete | mayaḥ | karan | para-tare | cana | ahan