Sukta 10.95
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥
अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥
antarikṣa-prā́ṁ rájasaḥ vi-mā́nīm úpa śikṣāmy urváśīṁ vásiṣṭhaḥ | úpa tvā rātíḥ su-kṛtásya tíṣṭhān ní vartasva hṛ́dayaṁ tapyate me ||
I, Vasiṣṭha, seek to instruct (and win back) Urvaśī who ranges in the mid-region and measures the worlds of space. The offering of well-done inner work stands near you; turn back—my heart burns with the heat of seeking.
अ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः । उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥अन्तरिक्षप्राम् । रजसः । विमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः । उप । त्वा । रातिः । सुकृतस्य । तिष्ठात् । नि । वर्तस्व । हृदयम् । तप्यते । मे ॥antarikṣa-prām | rajasaḥ | vi-mānīm | upa | śikṣāmi | urvaśīm | vasiṣṭhaḥ | upa | tvā | rātiḥ | su-kṛtasya | tiṣṭhāt | ni | vartasva | hṛdayam | tapyate | me