Sukta 10.95
यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः । घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥
यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑: श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥
yád virūpā́caram mártyeṣv ávasam rā́trīḥ śarádaś cátasraḥ | ghṛtásya stókaṁ sakṛ́d áhna āśnām tā́d evédaṁ tatṛpāṇā́ carāmi ||
When I, the many-shaped (power), moved among mortals and dwelt through nights and four seasons, tasting but once a day a drop of the clarified sweetness—by that alone, by this measure, I move satisfied.
यत् । विऽरू॒पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः । घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥यत् । विरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः । घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥yat | vi-rūpā | acaram | martyeṣu | avasam | rātrīḥ | śaradaḥ | catasraḥ | ghṛtasya | stokam | sakṛt | ahnaḥ | āśnām | tāt | eva | idam | tatṛpāṇā | carāmi