Sukta 10.95
इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः । प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥
इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः । प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥
íti tvā devā imá āhur aiḷa yáthāīmetád bhávasi mṛtyú-bandhuḥ | prajā́ te devā́n havíṣā yajāti svàrga u tvám ápi mādayāse ||
So have these gods spoken to you, O Aiḷa: thus you become one whose companion is death (bound to mortality). Yet your offspring will worship the gods with the offering; and you too, in the luminous heaven, may partake of the divine delight.
इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः । प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊँ॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युबन्धुः । प्रजा । ते । देवान् । हविषा । यजाति । स्वःगे । ऊँ इति । त्वम् । अपि । मादयासे ॥iti | tvā | devāḥ | ime | āhuḥ | aiḷa | yathā | īm | etat | bhavasi | mṛtyu-bandhuḥ | pra-jā | te | devān | haviṣā | yajāti | svaḥ-ge | oṃ iti | tvam | api | mādayāse