Sukta 10.95
सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ । अधा शयीत निॠतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥
सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गन्त॒वा उ॑ । अधा॒ शयी॑त॒ निॠ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥
su-devó adyá prá-patet ánāvṛt parā-vátaṃ paramā́ṃ gantávā u | ádhā śáyīta níḥ-ṛter upásthe’dháinaṃ vṛ́kā rabhasā́so adyúḥ ||
Today the well-favored one may fly forth, not turning back, to the farthest distance, to the supreme beyond. Then he would lie in the lap of Dissolution; and then the fierce wolves would seize him.
सु॒ऽदे॒वः । अ॒द्य । प्र॒ऽपते॑त् । अना॑वृत् । प॒रा॒ऽवत॑म् । प॒र॒माम् । गन्त॒वै । ऊँ॒ इति॑ । अध॑ । शयी॑त । निःऽऋ॑तेः । उ॒पऽस्थे । अध॑ । ए॒न॒म् । वृकाः॑ । र॒भ॒सासः॑ । अ॒द्युः ॥सुदेवः । अद्य । प्रपतेत् । अनावृत् । परावतम् । परमाम् । गन्तवै । ऊँ इति । अध । शयीत । निःऋतेः । उपस्थे । अध । एनम् । वृकाः । रभसासः । अद्युः ॥su-devaḥ | adya | pra-patet | anāvṛt | parāvatam | paramām | gantavai | oṃ iti | adha | śayīta | niḥ-ṛteḥ | upa-sthe | adha | enam | vṛkāḥ | rabhasāsaḥ | adyuḥ