Sukta 10.95
प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै । प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः ॥
प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ । प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ माप॑: ॥
práti bravāṇi vartáyate áśru cakrán ná krandad ā́dhyē śivā́yai | prá tát te hinavā yát te asmè paréhy ástaṃ náhi mūra mā́ ā́paḥ ||
As I answer, the tears turn back; he weeps, yet not for the higher peace. I urge forth what is yours with us—go away, depart to the setting; do not, bewildered one, come near me.
प्रति॑ । ब्र॒वा॒णि॒ । व॒र्तय॑ते । अश्रु॑ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒ऽध्ये॑ । शि॒वायै॑ । प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति॑ । परा॑ । इ॒हि॒ । अस्त॑म् । न॒हि । मू॒र॒ । मा॒ । आपः॑ ॥प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आध्ये । शिवायै । प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि । मूर । मा । आपः ॥prati | bravāṇi | vartayate | aśru | cakran | na | krandat | ādhye | śivāyai | pra | tat | te | hinava | yat | te | asme iti | parā | ihi | astam | nahi | mūra | mā | āpaḥ