Sukta 10.94
ते सोमादो हरी इन्द्रस्य निंसतेंऽशुं दुहन्तो अध्यासते गवि । तेभिर्दुग्धं पपिवान्त्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥
ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ । तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥
te somā́do hárī índrasya niṃsate ’ṃśúṃ dúhanto ádhy āsate gávi | tébhir dúgdhaṃ papivā́n somyáṃ mádhv índro vardhate práthate vṛṣā́yate ||
Those Soma-eating bays of Indra draw near; milking the Soma-shoot they seat themselves upon the Cow (the luminous field). Drinking the milked honey of Soma, Indra grows—he widens, he becomes the Bull-force within.
ते । सो॒म॒ऽअदः॑ । हरी॒ इति॑ । इन्द्र॑स्य । निं॒स॒ते॒ । अं॒शुम् । दु॒हन्तः॑ । अधि॑ । आ॒स॒ते॒ । गवि॑ । तेभिः॑ । दु॒ग्धम् । प॒पि॒ऽवान् । सो॒म्यम् । मधु॑ । इन्द्रः॑ । व॒र्ध॒ते॒ । प्रथ॑ते । वृ॒ष॒ऽयते॑ ॥ते । सोमअदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि । तेभिः । दुग्धम् । पपिवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषयते ॥te | soma-adaḥ | harī iti | indrasya | niṃsate | aṃśum | duhantaḥ | adhi | āsate | gavi | tebhiḥ | dugdham | papi-vān | somyam | madhu | indraḥ | vardhate | prathate | vṛṣa-yate