Sukta 10.94
वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः । रैवत्येव महसा चारवः स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥
वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒: सद॒मित्स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥
vṛ́ṣā vo aṃśúr ná kilā riṣāthana íḷāvantaḥ sádham ít sthána āśítāḥ | raivatyéva máhasā cā́ravaḥ sthana yásya grāvāṇo ájuṣadhvam adhvarám ||
The Soma-shoot for you is a Bull-force; you do not fail in the striking. Full of the offering-impulse, ever you are fed at the breast. Like the Raivatī (rich in light) in her greatness, be fair and radiant—O stones—whose delight has accepted the sacrifice.
वृषा॑ । वः॒ । अं॒शुः । न । किल॑ । रि॒षा॒थ॒न॒ । इळा॑ऽवन्तः । सद॑म् । इत् । स्थ॒न॒ । आशि॑ताः । रै॒व॒त्याऽइ॑व । मह॑सा । चार॑वः । स्थ॒न॒ । यस्य॑ । ग्रा॒वा॒णः॒ । अजु॑षध्वम् । अ॒ध्व॒रम् ॥वृषा । वः । अंशुः । न । किल । रिषाथन । इळावन्तः । सदम् । इत् । स्थन । आशिताः । रैवत्याइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम् ॥vṛṣā | vaḥ | aṃśuḥ | na | kila | riṣāthana | iḷāvantaḥ | sadam | it | sthana | āśi tāḥ | raivatyāiva | mahasā | cāravaḥ | sthana | yasya | grāvāṇaḥ | ajuṣadhvam | adhvaram