Sukta 10.94
ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् । त ऊ सुतस्य सोम्यस्यान्धसोंऽशोः पीयूषं प्रथमस्य भेजिरे ॥
ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् । त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥
te ádrayo dáśayantrāsa āśávás teṣām ādhānáṃ páry eti haryatám | ta ū sutásya somyásyā́ndhaso ’ṃśóḥ pīyū́ṣaṃ prathamásya bhejire ||
Those pressing-stones, swift and set with their tenfold mechanism, move all around their golden, desirable placing. They take for themselves the first honeyed essence—the milk of delight—of the pressed Soma’s rapturous intoxication.
ते । अद्र॑यः । दश॑ऽयन्त्रासः । आ॒शवः॑ । तेषा॑म् । आ॒ऽधान॑म् । परि॑ । ए॒ति॒ । ह॒र्य॒तम् । ते । ऊँ॒ इति॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मस्य॑ । भे॒जि॒रे॒ ॥ते । अद्रयः । दशयन्त्रासः । आशवः । तेषाम् । आधानम् । परि । एति । हर्यतम् । ते । ऊँ इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे ॥te | adrayaḥ | daśa-yantrāsaḥ | āśavaḥ | teṣām | ādhānam | pari | eti | haryatam | te | oṃ iti | sutasya | somyasya | andhasaḥ | aṃśoḥ | pīyūṣam | prathamasya | bhejire