Sukta 10.94
उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः । यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुर॑: । यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥
ugrā́ iva prá-vahantaḥ sám-āyamuḥ sākáṃ yuktā́ vṛ́ṣaṇo bíbhrato dhúraḥ | yác chvasántaḥ jagrasānā́ arā́viṣuḥ śṛṇvé eṣāṃ próthatho árvatām iva ||
Like fierce ones rushing forward they have drawn together; yoked in unison, the bulls bearing the yoke-poles. When, breathing hard, devouring, they roar out, one hears their thunder as of horses.
उ॒ग्राःऽइ॑व । प्र॒ऽवह॑न्तः । स॒म्ऽआय॑मुः । सा॒कम् । यु॒क्ताः । वृष॑णः । बिभ्र॑तः । धुरः॑ । यद् । श्व॒सन्तः॑ । ज॒ग्र॒सा॒नाः । अरा॑विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः॑ । अर्व॑ताम्ऽइव ॥उग्राःइव । प्रवहन्तः । सम्आयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः । यद् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्इव ॥ugrāḥ-iva | pra-vahantaḥ | sam-āyamuḥ | sākam | yuktāḥ | vṛṣaṇaḥ | bibhrataḥ | dhuraḥ | yad | śvasantaḥ | jagrasānāḥ | arāviṣuḥ | śṛṇve | eṣām | prothathaḥ | arvatām-iva