Sukta 10.94
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः । न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः । न्य१॒॑ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वित॑: ॥
suparṇā́ vā́cam akratópa dyávy ā́khare kṛ́ṣṇā iṣirā́ anartiṣuḥ | nyàṅ ní yanty úparasya niṣkṛ́taṃ purū́ réto dadhire sū́ryaśvitaḥ ||
The fair-winged ones fashioned the Word; upward in heaven’s hollow the dark swift ones danced. Downward they go to the carving-out of the upper region; they have set abundant seed, those bright with the Sun’s power.
सु॒ऽप॒र्णाः । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णाः॑ । इ॒षि॒राः । अ॒न॒र्ति॒षुः॒ । न्य॑क् । नि । य॒न्ति॒ । उप॑रस्य । निः॒ऽकृ॒तम् । पु॒रु । रेतः॑ । द॒धि॒रे॒ । सू॒र्य॒ऽश्वितः॑ ॥सुपर्णाः । वाचम् । अक्रत । उप । द्यवि । आखरे । कृष्णाः । इषिराः । अनर्तिषुः । न्यक् । नि । यन्ति । उपरस्य । निःकृतम् । पुरु । रेतः । दधिरे । सूर्यश्वितः ॥su-parṇāḥ | vācam | akrata | upa | dyavi | ākhare | kṛṣṇāḥ | iṣirāḥ | anartiṣuḥ | nyak | ni | yanti | uparasya | niḥ-kṛtam | puru | retaḥ | dadhire | sūrya-śvitaḥ