Sukta 10.94
बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु । संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ । सं॒रभ्या॒ धीरा॒: स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभि॑: ॥
bṛhád vadanti madiréṇa mandínéndraṃ króśanto ’vidann anā́ mádhu | saṃrabhya dhīrā́ḥ svasṛ́bhir anartiṣur āghóṣayantaḥ pṛthivī́m upabdíbhiḥ ||
They speak the vast; with the intoxicating rapture they cry to Indra, and they have found the honey directly. Seizing together, the steadfast ones danced with their sisters, making the Earth resound with their reverberations.
बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ । म॒न्दिना॑ । इन्द्र॑म् । क्रोश॑न्तः । अ॒वि॒द॒न् । अ॒ना । मधु॑ । स॒म्ऽरभ्य॑ । धीराः॑ । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः॒ । आ॒ऽघो॒षय॑न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दिऽभिः॑ ॥बृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना । मधु । सम्रभ्य । धीराः । स्वसृभिः । अनर्तिषुः । आघोषयन्तः । पृथिवीम् । उपब्दिभिः ॥bṛhat | vadanti | madireṇa | mandinā | indram | krośantaḥ | avidan | anā | madhu | sam-rabhya | dhīrāḥ | svasṛ-bhiḥ | anartiṣuḥ | āghoṣayantaḥ | pṛthivīm | upabdi-bhiḥ