Sukta 10.94
एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि । वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि । वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥
etḗ vadanty ávidann anā́ mádhu ní ūṅkhayante ádhi pakvé ā́miṣi | vṛkṣásya śā́khām aruṇásya bápsatas té sū́bharvā vṛṣabhā́ḥ préma rāvīṣuḥ ||
These speak; they have found the honey without a vehicle; they rock and press upon the ripened substance. Like a branch of the ruddy tree they strike; those strong-burdened bulls have roared forth in front.
ए॒ते । व॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि॑ । प॒क्वे । आमि॑षि । वृ॒क्षस्य॑ । शाखा॑म् । अ॒रु॒णस्य॑ । बप्स॑तः । ते॒ । सूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥एते । वदन्ति । अविदन् । अना । मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि । वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते । सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥ete | vadanti | avidan | anā | madhu | ni | ūṅkhayante | adhi | pakve | āmiṣi | vṛkṣasya | śākhām | aruṇasya | bapsataḥ | te | sūbharvāḥ | vṛṣabhāḥ | pra | īm | arāviṣuḥ