Sukta 10.94
एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः । विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभि॑: । वि॒ष्ट्वी ग्रावा॑णः सु॒कृत॑: सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥
etḗ vadanti śatávat sahásravat abhí krandanti háritebhir ā́sabhiḥ | viṣṭvī́ grā́vāṇaḥ su-kṛ́taḥ su-kṛ́tyayā hótuś cit pū́rve havíradyam āśata ||
These speak in hundreds and in thousands; they cry out around with tawny mouths. The pressing-stones, well-made, by their right working, have attained even the ancient Hotar’s offering that is to be eaten.
ए॒ते । व॒द॒न्ति॒ । श॒तऽव॑त् । स॒हस्र॑ऽवत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि॑तेभिः । आ॒सऽभिः॑ । वि॒ष्ट्वी । ग्रावा॑णः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ । होतुः॑ । चि॒त् । पूर्वे॑ । ह॒विः॒ऽअद्य॑म् । आ॒श॒त॒ ॥एते । वदन्ति । शतवत् । सहस्रवत् । अभि । क्रन्दन्ति । हरितेभिः । आसभिः । विष्ट्वी । ग्रावाणः । सुकृतः । सुकृत्यया । होतुः । चित् । पूर्वे । हविःअद्यम् । आशत ॥ete | vadanti | śata-vat | sahasra-vat | abhi | krandanti | haritebhiḥ | āsa-bhi ḥ | viṣṭavī | grāvāṇaḥ | su-kṛtaḥ | su-kṛtyayā | hotuḥ | cit | pūrve | haviḥ-adyam | āśata