Sukta 10.94
प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः । यद॑द्रयः पर्वताः सा॒कमा॒शव॒: श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिन॑: ॥
práite vadantu prá vayáṃ vadāma grā́vabhyo vā́caṃ vadatā́ vadád-bhyaḥ | yád adrayaḥ párvatāḥ sākám āśávaḥ ślókaṃ ghóṣaṃ bhárathéndrāya sóminaḥ ||
Let these speak forth, and we too will speak: speak a word to the pressing-stones, to the speaking ones. When the stones, the mountains, swift together, bring the chant and the resonant cry to Indra for the Soma-bearers.
प्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव॑ऽभ्यः । वाच॑म् । व॒द॒त॒ । वद॑त्ऽभ्यः । यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः॒ । श्लोक॑म् । घोष॑म् । भर॑थ । इन्द्रा॑य । सो॒मिनः॑ ॥प्र । एते । वदन्तु । प्र । वयम् । वदाम । ग्रावभ्यः । वाचम् । वदत । वदत्भ्यः । यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥pra | ete | vadantu | pra | vayam | vadāma | grāva-bhyaḥ | vācam | vadata | vadat-bhyaḥ | yat | adrayaḥ | parvatāḥ | sākam | āśavaḥ | ślokam | ghoṣam | bharatha | indrāya | sominaḥ